|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.54. अध्यायः 054
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति युगचतुष्टयधर्मादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
पुत्रैः कथं महाराज पुरुषस्तारितो भवेत्।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप॥ 13-54-1(83666)
भीष्म उवाच। 13-54-2x(6896)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते॥ 13-54-2(83667)
पर्वतं नारदं चैव असितं देवलं च तम्।
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा॥ 13-54-3(83668)
गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे।
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत॥ 13-54-4(83669)
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः।
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन्॥ 13-54-5(83670)
मार्कण्डेय उवाच। 13-54-6x(6897)
अयं समागमः सद्भिर्यत्नेनासादितो मया।
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम्॥ 13-54-6(83671)
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति।
युगेयुगे महर्षिभ्यो धर्ममिच्छामि वेदितुम्॥ 13-54-7(83672)
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः।
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान्॥ 13-54-8(83673)
ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा।
सर्वधर्मार्थतत्वज्ञं मार्कण़्डेयं ततोऽब्रवीत्॥ 13-54-9(83674)
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित्।
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम्॥ 13-54-10(83675)
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि।
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः॥ 13-54-11(83676)
मार्कण्डेय उवाच। 13-54-12x(6898)
युगेयुगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति।
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः॥ 13-54-12(83677)
नारद उवाच। 13-54-13x(6899)
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे।
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः॥ 13-54-13(83678)
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम्॥ 13-54-14(83679)
तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम्।
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति॥ 13-54-15(83680)
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते।
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे॥ 13-54-16(83681)
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः।
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः।
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः॥ 13-54-17(83682)
मार्कण्डेय उवाच। 13-54-18x(6900)
एवं विलुलिते धर्मे लोके चाधर्मसंयुते।
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति॥ 13-54-18(83683)
नारद उवाच। 13-54-19x(6901)
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति।
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः॥ 13-54-19(83684)
सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात्।
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम्॥ 13-54-20(83685)
मार्कण्डेय उवाच। 13-54-21x(6902)
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति।
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति॥ 13-54-21(83686)
नारद उवाच। 13-54-22x(6903)
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः।
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति॥ 13-54-22(83687)
मार्कण्डेय उवाच। 13-54-23x(6904)
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः।
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति 13-54-23(83688)
नारद उवाच। 13-54-24x(6905)
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम्।
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम्॥ 13-54-24(83689)
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः।
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः॥ 13-54-25(83690)
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः।
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः॥' ॥ 13-54-26(83691)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपश्चाशोऽध्यायः॥ 54 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-54-16 नन्दिक इति कलियुगे प्रवर्तमानधर्मैकपादस्य नाम॥ 16 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|